शुचिपर्यावरणम्
कक्षा दशमः प्रथम पाठ:
शुचिपर्यावरणम्
अयं पाठः आधुनिकसंस्कृतकवेः हरिदत्तशर्मणः "लसल्लतिका" इति रचनासङ्ग्रहात् सङ्कलितोऽस्ति। अत्र कविः महानगराणां यन्त्राधिक्येन प्रवर्धितप्रदूषणोपरि चिन्तितमनाः दृश्यते। सः कथयति यद् इदं लौहचक्रं शरीरस्य मनसश्च शोषकम् अस्ति। अस्मादेव वायुमण्डलं मलिनं भवति। कविः महानगरीयजीवनात् सुदूर नदी-निर्झरं समूह लताकुञ्ज पक्षिकुलकलरवकूजितं वनप्रदेशं प्रति गमनाय अभिलषति।
दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्।।
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनूः पेषयत् भ्रमति सदा वक्रम्।।
बुर्वान्तैर्वशनैरमुना स्यान्नैव जनग्रसनम्। शुचि...॥1॥।
कज्ञ्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम् ।
बानानां पङ्ङ्क्तयो ह्यनन्ताः कठिनं संसरणम्। शुचि...।।2।।
वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्।
कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम् ।।
करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्। शुचि।॥3॥
कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर नदी पयः पूरम् ॥
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्बरणम्। शुचि...॥4॥।
हरिततरूणां ललितलतानां माला रमणीया।
कुसुमावलिः समीरचालिता स्यान्मे वरणीया।।
नवमालिका रसालं मिलिता रुचिर संगमनम्। शुचि।॥5॥।
अयि चल बन्धो! खगकुलकलरवगुञ्जितवनदेशम्।
पुर-कलरवसम्भ्रमितजनेभ्यो धृतसुखसन्देशम्।।
चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम्। शुचि... ।।6॥
प्रस्तरतले लत्तातरुगुल्या नो भवन्तु पिष्टाः।
पाषाणी सभ्यता निसर्गे स्थान्न समाविष्टा ।।
मानवाय जीवनं कामये नो जीवन्मरणम्। शुच्चि... ।।7॥।
शब्दार्थाः
दुर्वहम् दुष्करम् कठिन,दूधर Difficult
जीवितम् जीवनम् जीवन Life
अनिशम् अहर्निशम् दिन-रात Day and Night
कालायसचक्रम् लौहचक्रम् लोहे का चक्र Iron wheel
शोषयत् शुष्कीकुर्वत् सुखाते हुए Drying
तनू: शरीराणि शरीर Dies
पेषयद् पिष्टीकुर्वत् पीसते हुए Grinding
वक्रम कुटिलम् टेढ़ा Askew
दुर्दान्तै: भयड्करै: भयानक (से) Scary
दशनै: दन्तै: दांतो से By teeth
अमुना अनने इससे By thus
जनग्रसनम् जनभक्षणम् मानव विनाश Destruction of humans
सन्धिं / सन्धिविच्छेद कुरुत -
(क) प्रकृति: + ..................... - प्रकृतिरेव
(ख) स्यात् +....... + ........ - स्यान्नैव
(ग) .......... + अनन्ता: - हानन्ता:
(घ) बहि: + अन्त: + जगति - ..................
(ड) ............. + नगरात् - अस्मान्नगरात्
(च) सम् + चरणम् - ..................
(छ) धूमम् + मुचति - ..................
अधोलिखितानाम् अव्ययानां सहायताया रिक्तस्थानानि पूरयत-
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहि:
(क) इदानीं वायुमण्डलं .................प्रदूषितमस्ति।
(ख) ............जीवनं दुर्वहम् अस्ति ।
(ग) प्राकृतिक वातावरणे क्षणं सचरणम्.....................लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम्...............प्रकृते: आराधना।
(ड) .............समयस्य सदुपयोग: करणीय:।
(च) भूकम्पित-समये.............गमनमेव उचित भवति।
(छ) ..........हरितिमा.............शुचि पर्यावरणम् ।
एकपदेन उत्तरं लिखत-
(क) अत्र जीवितं कीदृशं जातम् ?
(ख) अनिशं महानगरमध्ये किं प्रचलति ?
(ग) कुस्तिमवस्तुमिश्रितं किमस्ति ?
(घ) अहं कस्मै जीवनं कामये ?
(ड) केषां माला रमणीयां ?